प्रथम-खण्डके अन्तमें: स्तोत्र और आरती
|
॥ श्रीहरिः॥ श्रीगोविन्ददामोदरस्तोत्रम्करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम्। वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि॥ १ ॥ श्रीकृष्ण गोविन्द हरे मुरारे, हे नाथ नारायण वासुदेव। जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति॥ २ ॥ विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्तिः। दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति॥ ३ ॥ गृहे गृहे गोपवधू-कदम्बाः सर्वे मिलित्वा समवाप्य योगम्। पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति॥ ४ ॥ सुखं शयाना निलये निजेऽपि नामानि विष्णोः प्रवदन्ति मर्त्याः। ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति॥ ५ ॥ जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि। समस्त-भक्तार्ति-विनाशनानि गोविन्द दामोदर माधवेति॥ ६ ॥ सुखावसाने इदमेव सारं दुःखावसाने इदमेव ज्ञेयम्। देहावसाने इदमेव जाप्यं गोविन्द दामोदर माधवेति॥ ७ ॥ जिह्वे रसज्ञे मधुर-प्रिये त्वं सत्यं हितं त्वां परमं वदामि। आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति॥ ८ ॥ त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते। वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर माधवेति॥ ९ ॥ श्रीकृष्ण राधावर गोकुलेश गोपाल गोवर्धन नाथ विष्णो। जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति॥१०॥
|
|
षट्पदीअविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम्। भूतदयां विस्तारय तारय संसारसागरतः॥ १ ॥ दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे। श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे॥ २ ॥ सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम्। सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः॥ ३ ॥ उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे। दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः॥ ४ ॥ मत्स्यादिभिरवतारैरवतारवतावता सदा वसुधाम्। परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम्॥ ५ ॥ दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द। भवजलधिमथनमन्दर परमं दरमपनय त्वं मे॥ ६ ॥ नारायण करुणामय शरणं करवाणि तावकौ चरणौ। इति षट्पदी मदीये वदनसरोजे सदा वसतु॥ ७ ॥ इति श्रीमच्छङ्कराचार्यविरचितं षट्पदीस्तोत्रं सम्पूर्णम्।
|
|
कैवल्याष्टकम्मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम्। पावनं पावनेभ्योऽपि हरेर्नामैव केवलम्॥ १ ॥ आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत्। सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम्॥ २ ॥ स गुरुः स पिता चापि सा माता बान्धवोऽपि सः। शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम्॥ ३ ॥ निःश्वासे न हि विश्वासः कदा रुद्धो भविष्यति। कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम्॥ ४ ॥ हरिः सदा वसेत्तत्र यत्र भागवता जनाः। गायन्ति भक्तिभावेन हरेर्नामैव केवलम्॥ ५ ॥ अहो दुःखं महादुःखं दुःखाद् दुःखतरं यतः। काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम्॥ ६ ॥ दीयतां दीयतां कर्णो नीयतां नीयतां वचः। गीयतां गीयतां नित्यं हरेर्नामैव केवलम्॥ ७ ॥ तृणीकृत्य जगत्सर्वं राजते सकलोपरि। चिदानन्दमयं शुद्धं हरेर्नामैव केवलम्॥ ८ ॥ इति श्रीकैवल्याष्टकं सम्पूर्णम्।
|
|
॥ श्रीहरिः॥ श्रीमद्भागवतकी आरतीआरति अतिपावन पुरानकी। धर्म-भक्ति-विज्ञान-खानकी॥ टेक ॥ महापुरान भागवत निरमल। शुक-मुख-विगलित निगम-कल्प-फल। परमानन्द-सुधा-रसमय कल। लीला-रति-रस रसनिधानकी॥ आरति०॥ कलि-मल-मथनि त्रिताप-निवारिनि। जन्म-मृत्युमय भव-भय-हारिनि। सेवत सतत सकल सुख-कारिनि। सुमहौषधि हरि-चरित-गानकी॥ आरति०॥ विषय-विलास-विमोह-विनाशिनि । विमल विराग विवेक विकाशिनि। भगवत्-तत्त्व-रहस्य-प्रकाशिनि । परम ज्योति परमात्म-ज्ञानकी॥ आरति०॥ परमहंस-मुनि-मन उल्लासिनि । रसिक-हृदय रस-रास विलासिनि। भुक्ति मुक्ति रति प्रेम सुदासिनि। कथा अकिञ्चनप्रिय सुजानकी॥ आरति०॥
|